शुक्रवार, 30 अक्टूबर 2015

अद्वैतमते भक्तिः

तदा पुमान् मुक्तसमस्तबन्धनस्तद्भावभावानुकृताशया कृतिः।
निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम्।। (-श्रीमद्भा०७/७/३६)
श्रीमद्भगवद्गीतायां भगवता भक्तेरधिकारी चतुर्विधः प्रोक्तः-
चतुर्विधा भजन्ते मां जनासुकृतीनोऽर्जुन।
आर्तोजिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ।। (-श्रीमद्भगव० ७ /१६ )
तत्र ज्ञानयुतो  विशुद्धान्तःकरणो वासनारहितश्च  पुरुषः भक्तेरधिकारी भवति। (तेषां ज्ञानी नित्ययुक्तः० इति गीतायाम् ) यावत् भोगस्य मोक्षस्य वा हृदि स्पृहा भवति तावत्  सम्यग्व्यवसिता भक्तेरभ्युदयो न भवति।
श्रीकृष्णचरणारविन्दयोः सेवया निर्मलचेतषां भक्तानां भवमुक्तिविषयेsपि  कदापि स्पृहा न भवति। इत्थं भवमुक्तिः भक्तेभ्यः त्याज्यतया एव शास्त्रे निरूपिता परं सालोक्य-सारूप्य-सायुज्य-सामीप्यरूपा मुक्तिः भक्तिविरोधिनी न भवति।
‘मोक्षसाधनसामग्य्रां भक्तिरेव गरीयसि (वि.चू.) इति वदद्भिः श्रीमच्छङ्कराचार्यैः भक्तेर्मुक्त्युपायत्वं कण्ठत एवाघोषितम् । अद्वैतमते  भज्- सेवायाम् इति धातुना निष्पन्नो भक्तिशब्दः सेव्यसेवकसापेक्षस्सन् जीवब्रह्मणोर्व्यावहारिकभेदं प्रतिपादयति । तथाहि  –
सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम्। सामुद्रो हि तरंगः क्वचन समुद्रो न तारंगः ।। इति ।।
अथापि श्रीमच्छङ्कराचार्यैः –
‘स्वस्वरुपानुसन्धानं भक्तिरित्युच्यते बुधैः इति (विवेकचू०) । अनेन चैतन्याभेदविज्ञप्तिरेव भक्तेरवसानत्वेन वर्तते  क्षेत्रज्ञेश्वरयोरभेदत्वात् ।
एवमाश्रित्य श्रीमन्मधुसूदनस्वामिभिरपि भक्तेः मार्मिकी व्याख्या एवं प्रकारेण कृता –
द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा ।
सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥ इति भक्तिरसायने २/१
भगवद्भक्तिप्राप्तये जाति-कुल-गुण-रूप-विद्या धनादीनामपेक्षा नास्ति, केवलं भगवति प्रेमोत्कर्ष एवापेक्षिता भवति। सर्वकामनाहीनो भगवत्यनुरक्तो जनः सर्वतो भावेन भगवतः कामना  एव करोति ,   सैव भक्तिरूच्यते। सिद्धान्ततः विष्णुश्रीकृष्णयोः भेदो नास्ति परं भक्तिसाम्राज्ये ऐश्वर्यप्रधानविष्णुस्वरूपाऽपेक्षया माधुर्यप्रधानकृष्णरूपे आकर्षणस्य वैशिष्ट्यं वर्तते। अतः श्रीमन्मधुसूदनस्वामिभिरुच्यन्ते –
तज्जन्यायां द्रुतौ चित्ते या स्याच्छ्रीकृष्णनिष्ठता ।
सम्भोगविप्रयोगाख्या रतिस्सा सा क्रमाद् भवेत् ।। -भक्तिरसायनम् २/४
।। जय श्रीराम ।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें