सोमवार, 7 दिसंबर 2015

मठाम्नाय महानुशासनम्

“मठाम्नाय महानुशासनम् ” [मठाम्नाय (मठ+आम्नाय) / महानुशासन (महा+अनुशासन)] भगवान् श्रीमदाद्यशंकराचार्य द्वारा विरचित वह शास्त्रविशेष है, जो पूज्य जगद्गुरु महाराज द्वारा प्रवर्धित चतुष्पीठात्मिका व्यवस्था से सम्बन्धित विधानों एवं सिद्धान्तों के प्रकाशन को समर्पित है | इसे ही “मठाम्नाय महासेतुः” भी कहा जाता है |यह शास्त्र ‘मठाम्नायोपनिषद् ‘ (अर्थात् मठाम्नाय ) से सम्बन्धित महानुशासनम् या महासेतु है | प्रायः इसके प्रामाणिक श्लोकों को लेकर मनीषियों में पृथक्-पृथक् मत देखने को मिलता है, जिस कारण सामान्य जिज्ञासुओं के लिए मौलिक स्थिति अस्पष्ट सी हो गयी है | हमने इस अनुशासन के वर्त्तमान उपलब्ध स्वरूप को यथातथ्य रूप से दर्शाने का प्रयास किया है | _____________________________________________________ [१] आचार्य श्री बलदेव उपाध्याय (अध्यक्ष, पुराणेतिहास विभाग, वाराणसेय संस्कृत विश्वविद्यालय ) विरचित शोधपूर्ण ग्रन्थ ‘श्री शंकराचार्य’ आधारित ‘मठाम्नाय महानुशासनम्’, जो इस ग्रन्थ के पृष्ठ संख्या २१४-२१६ में उद्धृत है, यहाँ लेखक ने स्पष्ट किया है कि अनेक हस्तलिखित प्रतियों को मिलाकर यह उसके असली मूलरूप को खोजा गया है | इसे आप सभी के सम्मुख उपस्थित किया जा रहा है | ध्यातव्य है कि इस प्रसिद्ध ग्रन्थ का प्रथम संस्करण १९५० में , द्वितीय १९६३ तथा तृतीय २००३ में हिन्दुस्तानी एकेडमी , इलाहाबाद से हुआ है | – महानुशासनाम् आम्नायाः कथिता ह्येते यतीनाञ्च पृथक्-पृथक् । तैः सर्वेश्चतुराचार्यैर्नियोगेन यथाक्रमम् ॥१॥ प्रयोक्ततव्याः स्वधर्मेषु शासनीयास्ततोऽन्यथा । कुर्वन्तु एव सततमटनं धरणीतले ॥२॥ विरुद्धाचरणप्राप्तावाचार्याणां समाज्ञया । लोकान् संशीलयन्त्वेव स्वधर्माप्रतिरोधतः ॥३॥ स्व-स्वराष्ट्रप्रतिष्ठित्यै सञ्चारः सुविधीयताम् । मठे तु नियतो वास आचार्यस्य न युज्यते ॥४॥ वर्णाश्रमसदाचारा अस्माभिर्ये प्रसाधिताः । रक्षणीयाः सदैवैते स्व-स्व भागे यथाविधि ॥५॥ यतो विनष्टिर्महती धर्मस्यास्य प्रजायते । मान्द्यं सन्त्याज्यमेवात्र दाक्ष्यमेव समाश्रयेत् ॥६॥ परस्परविभागे तु न प्रवेशः कदाचन । परस्परेण कर्तव्या ह्याचार्येण व्यवस्थितिः ॥७॥ मर्यादाया विनाशेन लुप्येरन्नियमाः शुभाः । कलहाङ्गारसम्पत्तिरतस्तां परिवर्जयेत् ॥८॥ परिव्राडार्यमर्यादो मामकीनां यथाविधि । चतुष्पीठाधिगां सत्तां प्रयुञ्ज्याच्च पृथक्-पृथक् ॥९॥ शुचिर्जितेन्द्रियो वेद-वेदाङ्गादिविशारदः । योगज्ञः सर्वशास्त्राणां स मदास्थानमापुयात् ॥१०॥ उक्तलक्षणसम्पन्नः स्याच्चेन्मत्पीठभाग् भवेत् । अन्यथारूढपीठोऽपि निग्रहार्हो मनीषिणाम् ॥११॥ न जातु मठमुच्छिन्द्यादिधिकारिण्युपस्थिते । विघ्नानामपि बाहुल्यादेष धर्मः सनातनः ॥१२॥ अस्मत्पीठसमारूढः परिव्राडुक्तलक्षणः । अहमेवेति विज्ञेयो यस्य देव इति श्रुतेः ॥१३॥ एक एवाविषेच्यः स्यादन्ते लक्षणसम्मतः । तत्तत्पीठे क्रमेणैव न बहु युज्यते क्वचित् ॥१४॥ सुधन्वनः समौत्सुक्यनिवृत्यै धर्म-हेतवे । देवराजोपचारांश्च यथावदनुपालयेत् ॥१५॥ केवलं धर्ममुद्दिश्य विभवो ब्रह्मचेतसाम् । विहितश्चोपकाराय पद्मपत्रनयं व्रजेत् ॥१६॥ सुधन्वा हि महाराजस्तथान्ये च नरेश्वराः । धर्मपारम्परीमेतां पालयन्तु निरन्तरम् ॥१७॥ चातुर्वर्ण्यं यथायोग्यं वाङ्मनः कायकर्मभिः । गुरोः पीठं समर्चेत विभागानुक्रमेण वै ॥१८॥ धरामालम्ब्य राजानः प्रजाभ्यः करभागिनः । कृताधिकारा आचार्या धर्मतस्तद्वदेव हि ॥१९॥ धर्मो मूलं मनुष्याणां स चाचार्यावलम्बनः । तस्मादाचार्यसुमणेः शासनं सर्वतोऽधिकम् ॥२०॥ तस्मात् सर्वप्रयत्नेन शासनं सर्वसम्मतम् । आचार्यस्य विशेषेण ह्यौदार्यभरभागिनः ॥२१॥ आचार्याक्षिप्त दण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥२२॥ इत्येवं मनुरप्याह गौतमोऽपि विशेषतः । विशिष्टशिष्टाचारोऽपि मूलादेव प्रसिद्ध्यति ॥२३॥ तानाचार्योपदेशांश्च राजदण्डांश्च पालयेत् । तस्मादाचार्यराजानावनवद्यौ न निन्दयेत् ॥२४॥ धर्मस्य पद्धतिर्ह्येषा जगतः स्थितिहेत्वे । सर्ववर्णाश्रमाणां हि यथाशास्त्रं विधीयते ॥२५॥ कृते विश्वगुरुर्ब्रह्मा त्रेतायामृषीसत्तमः । द्वापरे व्यास एव स्यात् कलावत्र भवाम्यहम् ॥२६॥ ॥ इति महानुशासनम् ॥ ______________________________________________ ______________________________________________ [२] ‘मठाम्नाय महानुशासनम् के अद्यावधिपर्यन्त उपलब्ध समस्त श्लोक – ॥ मठाम्नायमहानुशासनम् ॥ प्रथमः पश्चिमाम्नायः शारदामठ उच्यते । कीटवारः सम्प्रदायस्तस्य तीर्थाश्रमौ पदे ॥ १॥ द्वारकाख्यं हि क्षेत्रं स्याद् देवः सिद्धेश्वरः स्मृतः । भद्रकाली तु देवी स्याद् हस्तामलक देशिकः ॥ २॥ आचार्यो विश्वरूपकः गोमतीतीर्थममलं ब्रह्मचारी स्वरूपकः । सामवेदस्य वक्ता च तत्र धर्मं समाचरेत् ॥ ३॥ जीवात्मपरमात्मैक्य बोधो यत्र भविष्यति । तत्वमसि महावाक्यं गोत्रोऽविगत उच्यते ॥ ४॥ सिन्धु-सौवीर-सौराष्ट्र-महाराष्ट्रस्तथान्तराः । देशाः पश्चिमदिक्स्था ये शारदामठभागिनः ॥ ५॥ त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे । स्नायात्तत्त्वार्थभावेन तीर्थनाम्ना स उच्यते ॥ ६॥ आश्रमग्रहणे प्रौढ आशापाशविवर्जितः । यातायातविनिर्मुक्त एतदाश्रमलक्षणम् ॥ ७॥ कीटादयो विशेषेण वार्यन्ते यत्र जन्तवः । भूतानुकम्पया नित्यं कीटवारः स उच्यते ॥ ८॥ स्व-स्वरूपं विजानाति स्वधर्म-परिपालकः । स्वानन्दे क्रीडते नित्यं स्वरूपो बटुरुच्यते ॥ ९॥ पूर्वाम्नायो द्वितीयः स्याद् गोवर्धनमठः स्मृतः । भोगवारः सम्प्रदायो वनारण्ये पदे स्मृते ॥ १०॥ पुरुषोत्तमं तु क्षेत्रं स्याञ्ज्जगन्नाथोऽस्य देवता । विमलाख्याहि देवी स्यादाचार्यः पद्मपादकः ॥ ११॥ तीर्थं महोदधिः प्रोक्तं ब्रह्मचारी प्रकाशकः । महावाक्यं च तत्र स्यात् प्रज्ञानं ब्रह्म चोच्यते ॥ १२॥ ऋग्वेदपठनं चैव काश्यपो गोत्रमुच्यते । अङ्गबङ्गकलिङ्गाश्च मगधोत्कलबर्बराः । गोवर्धनमठाधीना देशाः प्राचीव्यवस्थिताः ॥ १३॥ सुरम्ये निर्जने स्थाने वने वासं करोति यः । आशाबन्धविनर्मुक्तो वननामा स उच्यते ॥ १४॥ अरण्ये संस्थितो नित्यमानन्दे नन्दने वने । त्यक्त्वा सर्वमिदं विश्वमारण्यं परिकीर्त्यते ॥ १५॥ भोगो विषय इत्युक्तो वार्यते येन जीविनाम् । सम्प्रदायो यतीनाञ्च भोगवारः स उच्यते ॥ १६॥ स्वयं ज्योतिर्विजानाति योगयुक्तिविशारदः । तत्त्वज्ञानप्रकाशेन तेन प्रोक्तः प्रकाशकः ॥ १७॥ तृतीयस्तूत्तराम्नायो ज्योतिर्नाम मठो भवेत् । श्रीमठश्चेति वा तस्य नामान्तरमुदीरितम् ॥ १८॥ आनन्दवारो विज्ञेयः सम्प्रदायोऽस्य सिद्धिदः । पदानि तस्य ख्यातानि गिरिपर्वतसागराः ॥ १९॥ बदरीकाश्रमः क्षेत्रं देवो नारायणः स्मृतः । पूर्णागिरि च देवी स्यादाचार्यस्तोटकः स्मृतः ॥ २०॥ तीर्थं चालकनन्दाख्यं आनन्दो ब्रह्मचार्यभूत् । अयमात्मा ब्रह्म चेति महावाक्यमुदाहृतम् ॥ २१॥ अथर्ववेदवक्ता च भृग्वाख्यं गोत्रमुच्यते । कुरुकाश्मीरकाम्बोजपाञ्चालादिविभागतः । ज्योतिर्मठवशा देशा उदीचीदिगवस्थिताः ॥ २२॥ वासो गिरिवने नित्यं गीताध्ययनतत्परः । गम्भीराचलबुद्धिश्च गिरिनामा स उच्यते ॥ २३॥ वसन् पर्वतमूलेषु प्रौढं ज्ञानं विभर्ति यः । सारासारं विजानाति पर्वतः परिकीर्त्यते ॥ २४॥ तत्वसागरगम्भीर ज्ञानरत्नपरिग्रहः । मर्यादां वै न लङ्घ्येत सागरः परिकीर्त्यते ॥ २५॥ आनन्दो हि विलासश्च वार्यते येन जीविनाम् । सम्प्रदायो यतीनां चानन्दवारः स उच्यते ॥ २६॥ सत्यं ज्ञानमनन्तं यो नित्यं ध्यायेत तत्त्ववित् । स्वानन्दे रमते चैव आनन्दः परिकीर्त्यते ॥ २७॥ चतुर्थो दक्षिणाम्नायः श्रृङ्गेरी तु मठो भवेत् । सम्प्रदायो भूरिवारो भूर्भवो गोत्रमुच्यते ॥ २८॥ पदानि त्रीणि ख्यातानि सरस्वती भारती पुरी । रामेश्वराह्वयं क्षेत्रमादिवाराहदेवता ॥ २९॥ कामाक्षी तस्य देवी स्यात् सर्वकामफलप्रदा । सुरेश्वराख्य आचार्यस्तुङ्गभद्रेति तीर्थकम् ॥ ३०॥ हस्तामलक चैतन्याख्यो ब्रह्मचारी यजुर्वेदस्य पाठकः । अहं ब्रह्मास्मि तत्रैव महावाक्यं समीरितम् ॥ ३१॥ आन्ध्रद्रविडकर्णाटकेरलादिप्रभेदतः । श्रृङ्गेर्यधीना देशास्ते ह्यवाचीदिगवस्थिताः ॥ ३२॥ स्वरज्ञानरतो नित्यं स्वरवादी कवीश्वरः । संसारसागरासारहन्ताऽसौ हि सरस्वती ॥ ३३॥ विद्याभरेण सम्पूर्णः सर्वभारं परित्यजन् । दुःखभारं न जानाति भारती परिकीर्त्यते ॥ ३४॥ ज्ञानतत्त्वेन सम्पूर्णः पूर्णतत्त्वपदे स्थितः । परब्रह्मरतो नित्यं पुरीनामा स उच्यते ॥ ३५॥ भूरिशब्देन सौवर्ण्यं बार्यते येन जीविनाम् । सम्प्रदायो यतीनां च भूरिवारः स उच्यते ॥ ३६॥ चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् । यो जानाति स वै विद्वान् चैतन्यं तद्विधीयते ॥ ३७॥ मर्यादैषा सुविज्ञेया चतुर्मठविधायिनी । तामेतां समुपाश्रित्य आचार्याः स्थापिताः क्रमात् ॥ ३८॥ आम्नायाः कथिता ह्येते यतीनाञ्च पृथक्-पृथक् । तैः सर्वेश्चतुराचार्यैर्नियोगेन यथाक्रमम् ॥ ३९॥ प्रयोक्ततव्याः स्वधर्मेषु शासनीयास्ततोऽन्यथा । कुर्वन्तु एव सततमटनं धरणीतले ॥ ४०॥ विरुद्धाचरणप्राप्तावाचार्याणां समाज्ञया । लोकान् संशीलयन्त्वेव स्वधर्माप्रतिरोधतः ॥ ४१॥ स्व-स्वराष्ट्रप्रतिष्ठित्यै सञ्चारः सुविधीयताम् । मठे तु नियतो वास आचार्यस्य न युज्यते ॥ ४२॥ वर्णाश्रमसदाचारा अस्माभिर्ये प्रसाधिताः । रक्षणीयाः सदैवैते स्व-स्व भागे यथाविधि ॥ ४३॥ यतो विनष्टिर्महती धर्मस्यास्य प्रजायते । मान्द्यं सन्त्याज्यमेवात्र दाक्ष्यमेव समाश्रयेत् ॥ ४४॥ परस्परविभागे तु न प्रवेशः कदाचन । परस्परेण कर्तव्या ह्याचार्येण व्यवस्थितिः ॥ ४५॥ मर्यादाया विनाशेन लुप्येरन्नियमाः शुभाः । कलहाङ्गारसम्पत्तिरतस्तां परिवर्जयेत् ॥ ४६॥ परिव्राडार्यमर्यादो मामकीनां यथाविधि । चतुष्पीठाधिगां सत्तां प्रयुञ्ज्याच्च पृथक्-पृथक् ॥ ४७॥ शुचिर्जितेन्द्रियो वेद-वेदाङ्गादिविशारदः । योगज्ञः सर्वशास्त्राणां स मदास्थानमापुयात् ॥ ४८॥ उक्तलक्षणसम्पन्नः स्याच्चेन्मत्पीठभाग् भवेत् । अन्यथारूढपीठोऽपि निग्रहार्हो मनीषिणाम् ॥ ४९॥ नजातु मठमुच्छिन्द्यादिधिकारिण्युपस्थिते । विघ्नानामपि बाहुल्यादेष धर्मः सनातनः ॥ ५०॥ अस्मत्पीठसमारूढः परिव्राडुक्तलक्षणः । अहमेवेति विज्ञेयो यस्य देव इति श्रुतेः ॥ ५१॥ एक एवाविषेच्यः स्यादन्ते लक्षणसम्मतः । तत्तत्पीठे क्रमेणैव न बहु युज्यते क्वचित् ॥ ५२॥ सुधन्वनः समौत्सुक्यनिवृत्यै धर्म-हेतवे । देवराजोपचारांश्च यथावदनुपालयेत् ॥ ५३॥ केवलं धर्ममुद्दिश्य विभवो ब्रह्मचेतसाम् । विहितश्चोपकाराय पद्मपत्रनयं व्रजेत् ॥ ५४॥ सुधन्वा हिमहाराजस्तथान्ये च नरेश्वराः । धर्मपारम्परीमेतां पालयन्तु निरन्तरम् ॥ ५५॥ चातुर्वर्ण्यं यथायोग्यं वाङ्मनः कायकर्मभिः । गुरोः पीठं समर्चेत विभागानुक्रमेण वै ॥ ५६॥ धरामालम्ब्य राजानः प्रजाभ्यः करभागिनः । कृताधिकारा आचार्या धर्मतस्तद्वदेव हि ॥ ५७॥ धर्मो मूलं मनुष्याणां स चाचार्यावलम्बनः । तस्मादाचार्यसुमणेः शासनं सर्वतोऽधिकम् ॥ ५८॥ तस्मात् सर्वप्रयत्नेन शासनं सर्वसम्मतम् । आचार्यस्य विशेषेण ह्यौदार्यभरभागिनः ॥ ५९॥ आचार्याक्षिप्त दण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥६०॥ इत्येवं मनुरप्याह गौतमोऽपि विशेषतः । विशिष्टशिष्टाचारोऽपि मूलादेव प्रसिद्ध्यति ॥ ६१॥ तानाचार्योपदेशांश्च राजदण्डांश्च पालयेत् । तस्मादाचार्यराजानावनवद्यौ न निन्दयेत् ॥ ६२॥ धर्मस्य पद्धतिर्ह्येषा जगतः स्थितिहेत्वे । सर्ववर्णाश्रमाणां हि यथाशास्त्रं विधीयते ॥ ६३॥ कृते विश्वगुरुर्ब्रह्मा त्रेतायामृषीसत्तमः । द्वापरे व्यास एव स्यात् कलावत्र भवाम्यहम् ॥ ६४॥ मठाश्चत्वार आचार्याचत्वारश्चधुरन्धराः । सम्प्रदायाश्च चत्वार एषा धर्मव्यवस्थितिः ॥ ६५॥ अथोर्ध्वं शेषा आम्नायाः विज्ञानैक विग्रहाः पञ्चमस्तूर्ध्व आम्नायः सुमेरुमठ उच्यते । सम्प्रदायोऽस्य काशी स्यात् सत्यज्ञानाभिधे पदे ॥ ६६॥ कैलासः क्षेत्रमित्युक्तं देवताऽस्य निरञ्जनः । देवी माया तथाचार्य ईश्वरोऽस्य प्रकीर्तितः ॥ ६७॥ तीर्थ तु मानसं प्रोक्तं ब्रह्मतत्त्वावगाहि तत् । तत्र संयोगमात्रेण संन्यासं समुपाश्रयेत् ॥ ६८॥ सूक्ष्मवेदस्य वक्ता च तत्र धर्मं समाचरेत् । षष्ठ स्वात्माख्य आम्नायः परमात्मा मठो महान् ॥ ६९॥ सत्त्वतोषः सम्प्रदायः पदं योगमनुस्मरेत् । नभः सरोवरं क्षेत्रं परहंसोऽस्य देवता ॥ ७०॥ देवी स्यान्मानसी माया आचार्यश्चेतनाह्वयः । त्रिपुटीतीर्थमुत्कृष्टं सर्वपुण्यप्रदायकम् ॥ ७१॥ भव-पाशविनाशाय संन्यासं तत्र चाश्रयेत् । वेदान्तवाक्यवक्ता च तत्र धर्मं समाचरेत् ॥ ७२॥ सप्तमो निष्कलाम्नायः सहस्त्रार्कद्युतिर्मठः । सम्प्रदायोऽस्य सच्छिष्यः श्रीगुरोः पादुके पदे ॥ ७३॥ तत्रानुभूतिः क्षेत्रं स्याद् विश्वरूपोऽस्य देवता। देवी चिच्छक्तिनाम्नी हि आचार्यः सद्गुरुः स्मृतः॥७४॥ सच्छास्त्रश्रवणं तीर्थं जरामृत्युविनाशकम् । पूर्णनन्दप्रसादेन संन्यासं तत्र चाश्रयेत् ॥ ७५॥ ॥ इति श्रीमद्भगवत्पादस्वामि आद्यशङ्कराचार्यकृतः श्रीमन्मठाम्नायमहानुशासनम् सम्पूर्णम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें