श्री गणेशाय नमः ..
अस्य श्रीशिवरक्शास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषि
श्री सदाशिवो देवता .. अनुष्टुभ् छन्दः श्रीसदाशिवप्रीत्यर्थं शिवरक्शास्तोत्रजपे विनियोगः चरितं देवदेवस्य महादेवस्य पावनम . अपारं परमोदारं चतुर्वर्गस्य साधनम .
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम . शिवं ध्यात्वा दशभुजं शिवरक्शां पठेन्नरः
गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः . नयने मदनध्वंसी कर्णो सर्पविभूश्हण .
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः . जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः .
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः . भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक .
हृदयं शंकरः पातु जठरं गिरिजापतिः . नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः .
सक्थिनी पातु दीनार्तशरणागतवत्सलः उरू महेश्वरः पातु जानुनी जगदीश्वरः ..
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः
एतां शिवबलोपेतां रक्शां यः सुकृती पठेत . स भुक्त्वा सकलान्कामान शिवसायुज्यमाप्नुयात .
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये . दूरादाशु पलायन्ते शिवनामाभिरक्शणात .
अभयङ्करनामेदं कवचं पार्वतीपतेः . भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत_त्रयम
इमां नारायणः स्वप्ने शिवरक्शां यथा.अ.अदिशत . प्रातरुत_थाय योगीन्द्रो याज्ञवल्क्य: तथा अलिखत
- इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्शास्तोत्रं सम्पूर्णम -
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें