गुरुवार, 17 दिसंबर 2015

श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषि


श्री गणेशाय नमः .. अस्य श्रीशिवरक्शास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषि श्री सदाशिवो देवता .. अनुष्टुभ् छन्दः श्रीसदाशिवप्रीत्यर्थं शिवरक्शास्तोत्रजपे विनियोगः चरितं देवदेवस्य महादेवस्य पावनम . अपारं परमोदारं चतुर्वर्गस्य साधनम . गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम . शिवं ध्यात्वा दशभुजं शिवरक्शां पठेन्नरः गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः . नयने मदनध्वंसी कर्णो सर्पविभूश्हण . घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः . जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः . श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः . भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक . हृदयं शंकरः पातु जठरं गिरिजापतिः . नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः . सक्थिनी पातु दीनार्तशरणागतवत्सलः उरू महेश्वरः पातु जानुनी जगदीश्वरः .. जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः एतां शिवबलोपेतां रक्शां यः सुकृती पठेत . स भुक्त्वा सकलान्कामान शिवसायुज्यमाप्नुयात . ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये . दूरादाशु पलायन्ते शिवनामाभिरक्शणात . अभयङ्करनामेदं कवचं पार्वतीपतेः . भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत_त्रयम इमां नारायणः स्वप्ने शिवरक्शां यथा.अ.अदिशत . प्रातरुत_थाय योगीन्द्रो याज्ञवल्क्य: तथा अलिखत - इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्शास्तोत्रं सम्पूर्णम -

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

ब्लॉग आर्काइव