महाभाष्ये जन्मनावर्णवाद: (सामाजिक-मत-विखण्डनम्) -
______________________________
यदुक्तं महाभाष्येsपि गुणशब्दा उक्तास्तस्माद् गुणकृतमेवब्राह्मण्यादिकमिति तदेतन्महाभाष्याद्यज्ञानविजृम्भितम् | तपः श्रुतञ्च योनिश्चेति वचनविरोधात् | अथवा छद्मनामूढजनप्रतारणाय तपः श्रुतं चोक्त्वा योनिश्चेति नोक्तम् | तथाहि नञ् (पा०सू० २/२/६ ) इत्यत्र किं प्रधानोsयं समास इत्युपक्रान्तः |

अत्र प्रदीपे - ‘ इहा ब्राह्मणादिना क्षत्रियादेरभिधानं लोके दृश्यते |
तत्र प्रक्रियागतगुणदोषनिरूपणाय प्रश्नः | यदा जातौ ब्राह्मणशब्दो
वर्तते अविद्यमानं ब्राह्मण्यं यस्य सोsब्राह्मणः
क्षत्रियादिस्तदान्यपदार्थः प्रधानम् | एवं
अन्यपदपूर्वपदोत्तरपदार्थप्राधान्यपक्षानुत्थाप्यानुपपत्तय उक्ताः |
उत्तरपदार्थ प्राधान्यपक्षे पुनरपि अब्राह्मणमानयेत्युक्ते
ब्राह्मणमात्रस्यानयनं प्राप्नोतीत्याक्षेपे तत्र राजपुरुषमानयेत्युक्ते
पुरुषमात्रस्य कुतो नानयनमिति प्रतिक्षेपे “ यथा तत्र विशेषोsभ्युपेयते
तथैवात्रापि नञ्विशेषको ब्राह्मणः प्रयुक्त इति तस्यैवानयनं न तु
ब्राह्मणमात्रास्येति समाहितम् |
“कः पुनरसौ इति” पृष्टे निवृत्तिपदार्थकः इति समाहितमेवं प्रश्नप्रतिवचनपरम्परयाsन्यदपि बहूक्त्वा “पश्चादर्थप्रत्यानयनाय शब्दः प्रयुज्यते | स चेन्निवृत्तः किमर्थं प्रयुज्यत” इत्युक्तम् | ततः प्रतिषेधविषयप्रदर्शनाय बुद्ध्या ब्राह्मणार्थं निरूप्य तस्य क्षत्रियादौ मुख्यसत्ताविरहप्रतिपादनाय नञ्सहितो ब्राह्मणशब्द: प्रयुक्त इत्युक्तम् |
यस्यैव गुणस्य स्वाभाविकी निवृत्तिः क्षत्रियादौ तस्यैवासौ नञा द्योत्यते | अवशिष्टानां गुणानामर्थात्सद्भावो गम्यते | अस्मिन् प्रसङ्गे महाभाष्यकार आह – “ सर्व एते शब्दा गुणसमुदायेषु वर्त्तन्ते | ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति |
अत्र प्रदीपोक्तरीत्या गुणशब्दे धर्ममात्रं पराश्रयमुच्यते | अतएव योनिशब्दितं जन्मापि गुणसामुदायान्तर्गतम् | तेन नात्र जन्मनिरपेक्षं मुख्यं ब्राह्मण्यमुक्तम् | तथा च महाभाष्यकृतैवोद्धृतं स्मृतिशास्त्रम् -
तपः श्रुतञ्च योनिश्चेत्येतद् ब्राह्मणकारणम् |
तपः श्रुताभ्यां यो हीनो जाति ब्राह्मण एव सः || (-महाभाष्य २/२/६ )
अत्र प्रदीपः - तपः चान्द्रायणादिकर्म, श्रुतं वेदवेदाङ्गादीनामध्ययनम् , योनिः ब्राह्मणाद् ब्राह्मण्यां जन्म ब्राह्मणकारणम् ब्राह्मणव्यपदेशस्येतन्निमित्तम् | गुणसमुदायाभावेsपि तदेकदेशे प्रयोगदर्शनादाह –
तपः श्रुताभ्यां यो हीनो जातिब्राह्मण एव सः || इति ||
अस्तु,
हर हर महादेव !
|| जय श्री राम ||

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें